#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00576 Uniform title: saravatīstotram mantrabhāsyam aṣṭādaśajātinirṇaya Manuscript : Shri Ragunatha Temple MSS Library Jammu no: 2674 k Manuscript : Shri Ragunatha Temple MSS Library Jammu no: 2675 kh Manuscript : Shri Ragunatha Temple MSS Library Jammu no: 2676 g Description: Notes: Manuscript selected by Mark S.G. Dyczkowski. Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: October 9, 2021 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : United States #################################################### प्. १अ) ओं श्रीगणेशाय नमः | ओं नमः सरस्वत्यै | ओं कथं सारस्वतः प्राप्तिकेनोपायेन सुब्रत | महासरस्वती देवी तुष्टा भवति तद्वद || १ || श्री आश्वलायन उवाच || शृणुध्वं ऋषयः सर्वे गुह्याद्गुह्यतरं महत् | दशश्लोकेति विख्यातं वदामि ध्यानपूर्वकं || २ || अंकुशं चाक्षमालां च पाशपुस्तकधारिणीं | ज्वालामालासमायुक्तां देवीं ध्यायेच्चतुर्भुजां || ३ || सितेन दर्पणाभेन वस्त्रेण परिभूषितां | सुस्तनीं वेदि मध्यां तां चंद्रार्धकृतशेखरां || ४ || जटाकलापसंयुक्तां पूर्णचंद्रनिभाननां | कटके स्वर्णरत्नाढ्यैर्मुक्ताबलिविभूषितां || ५ || त्रिलोचनां महादेवीं स्वर्णनूपुरधारिणीं | कैयूरैर्मेखलाद्यैश्च द्योतयंतीं जगत्रयं || ६ || शब्दब्रह्मारणीं ध्यायेज्ज्ञानकामः समाहितः || ७ || ओं अस्य श्रीसरस्वतीस्तोत्रमंत्रस्य आश्वलायन ऋषिः अनुष्टूप्छंदः श्रीवाग्वादिनीदेवता दैवीं वाचमजमति बीजं यद्वागिति शक्तिः प्रणोदेवीति कीलकं आत्मनः सरस्वती देवी प्रसाद सिद्ध्यर्थे परमेश्वर प्रीत्यर्थे पाठे विनियोगः || ९ || ओं परंब्रह्मात्मिकां देविम्भुक्तिमुक्तिफलप्रदां | प्रणम्य स्तौमि तामेव ज्ञानशक्ति सरस्वतीं || १० || या वेदांतोक्त तत्वैक स्वरूपा परमार्थतः | नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती || ११ || या सांगोपांग वेदेषु चतुर्ष्वेकैव गीयते | अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती || १२ || या वर्णपदवाक्यार्थ स्वरूपेण निगद्यते | प्. १ब्) अनादिनिधनानंता सा मां पातु सरस्वतीं || १३ || नाम जात्यादिकं सर्वं यस्यामावेश्यतां पुनः | ध्यायंति ब्रह्मरूपस्था सा मां पातु सरस्वतीं || १४ || नामजात्यादिभिर्भैदैरष्टधा या विकल्पिता | निर्विकल्पात्मिकैकैव सा मां पातु सरस्वतीं || १५ || या प्रत्यग्दृष्टिभिः प्रज्ञैर्व्यजमानानुभूयते | व्यापिनी ज्ञप्ति रूपैका सा मां पातु सरस्वतीं || १६ || अंतर्व्याप्यात्मना विश्वं त्रैलोक्यं याधि गच्छति | रुद्रादित्यादि रूपस्था सा मां पातु सरस्वतीं || १७ || अध्यात्ममधिदैवं च दैवानां सम्यगीश्वरी | प्रत्यगास्ते वदंती या सा मां पातु सरस्वतीं || १८ || व्यक्ताव्यक्त गिरः सर्वे देवाद्या व्याहरंति यां | सर्वकामदुघाधेनुः सा मां पातु सरस्वतीं || १९ || यां विदित्वाखिलं बंधं निर्मथ्यामलवर्त्मना | योगीयाति परं स्थानं सा मां पातु सरस्वतीं || २० || यः कवित्वं निरातंकं भुक्तिमुक्तिं च वांछति | सोभ्यर्च्यैव दशश्लोक्या भक्त्या स्तौति सरस्वतीं || २१ || भक्ति श्रद्धा वियुक्तस्य षण्मासात्प्रत्ययो भवेत् | ततः प्रवर्तते वाणी स्वेछाया ललिताक्षरा || २२ || गद्यपद्यात्मिकवश्य प्रमेयैश्च विवक्षितैः | अश्रुतं बुध्यते ग्रंथं प्रायः सारस्वतः कविः || २३ || श्रुतं च धारयेदाशु स्खलद्गीः स्पष्ट वाग्भवेत् | प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः || २४ || अजययः प्रतिपक्ष्याणां स्वयं जेता च जायते | स्वयूथ्यैर्वेदवाह्यैर्वा विवादे प्रस्तुते सति || २५ || अहं वाचस्पतिर्विष्णुः शिवश्चास्मीति भावयेत् | एवं भावयतानेन वाचस्पतिरपि स्वयं || २६ || न शक्नोति समं वक्तुं नरेष्वन्येषु का कथा | प्. २अ) न कांचन स्त्रियं निंदेन् न देवान् नापि वै द्विजान् || २७ || परापवादं नो कुर्यात् तिरस्कुर्यान्न योषितां | अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् || २८ || सर्वत्रैव प्रियं ब्रूयाद् यदीछेत् सिद्धिमात्मनः | श्लोकैरेव तिरस्कुर्याद् द्विषं तं प्रतिवादिनम् || २९ || प्रतिवादि गजानां च सिंहो भवति मानवः | यद्वागिति दृचेनैव देवीं योर्चयति सदा || ३० || तस्य नासंस्कृतावाणी मुखान्निःसरति क्वचित् | त्वं भूतसन्निधिः साक्षाद्यौश्चैव पृथिवी धृतिः || ३१ || लज्जापुष्टिरुषा चैव क्षमातुष्टिस्तथैव च | ये त्वां मातेति दुर्गेति देवागर्भेंबिके परे || ३२ || भद्रेति भद्रकालेति क्षेमे क्षेम तरेति च | प्रातश्चैवापराह्ने च स्तोष्यंत्यानम्रमूर्तयः || ३३ || तेषां हि प्रार्थितं सर्वं त्वत्प्रसादाद्भविष्यति | क्षीरेदध्युपहारैश्च भक्ष्यैर्भोज्यैश्च पूजिता || ३४ || नृणामशेषकामांस्तु प्रसन्ना सा प्रयच्छति || ३४ || या कुंदेंदु तुषार हार धवला या शुभ्र वस्त्रावृता या वीणा वरदंड मंडितकरा या श्वेत पद्मासना | या ब्रह्माच्युतशंकरप्रभृतिर्देवैः सदा वंदिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || ३५ || दोर्भिर्युक्ताश्चतुर्भिः स्फटिकमणिमयीमक्षमाला दधानां | हस्ते नैकेन पद्मंसितमपि च शुकं पुस्तकं चापरेण || या सा कुंदेंदु शंखस्फटिकमणिनिभाभासमानासमाना | सा मे वाग्देवते यं निवसतु वदने सर्वदा सुप्रसन्ना || ३६ || या देवी स्तूयते नित्यं ब्रह्मेंद्र सुरकिन्नरैः | सा मे वसतु जिह्वाग्रे पद्महस्ता सरस्वती || ३७ || प्. २ब्) पाशांकुशधरावाणी वीणापुस्तकधारिणी | मम वक्त्रे वसेन्नित्यं दुग्धकुंदेंदु निर्मला || ३८ || इत्याश्वलायन इदं निजगाददेव्या स्तोत्रं समानपदभोगनिधानभूतं | एतत्पठेन्द्विजवरः शुचितामुपैति सद्यः सुवांच्छितफलान्युपयाति शिघ्रं || ३९ || इति श्रीमहर्षिणा आश्वलायनकृतं श्रीसरस्वति स्तोत्रं समाप्तम् || शुभं भूयात् सर्वजगताम् || ओं शारिका भगवत्यै नमः | ओं नमस्कारो नमस्कर्यो नमस्कर्ता न यत्पृथक् | नमात्मानं नमाम्येवं नित्यनेवाहमात्मना || १ || विजयेश्वर वास्तव्य सोमानंदस्य सूनुना | मंत्रभाष्यमिदं कॢप्तं पदवाक्यैः सुनिश्चितैः || २ || उपनयन प्रभृति ब्रह्मचारिस्याः || १ || उपनयनं शिष्यसंबंधि चित्तस्य ब्रह्मात्मक गुरु कर्तृकं स्वसमीप प्रापणं स्वचित्तेन संयोजनं | यत्पूर्वमेवोक्तं | मम ब्रते हृदयं ते ददामि | मम चित्तं अनुचित्तं ते अस्तु इत्यादि | तदादि ब्रतचारी ब्रह्मचारिणो ब्रह्मस्वरूपगुरुसमीपप्राप्तिः गुरुरूपेण स्थितिश्च मुख्यं ब्रतं वर्तनं स्थितिरिति यावत् | अथ चनुपनयनं ब्रह्मस्वरूपगुरुसमीपप्राप्तिः तदनन्यत्व प्राप्तिरिति यावत् | तदादि वक्षमानानि ब्रतानि चरितं संभवो नान्यथेति भाववः संभावनायां लिऽऽन् || मार्गवासः २ || मार्गे शुद्धाध्वनि ब्रह्मैकता न तालक्षणे निवसन् स्या इति सर्वत्रानुषंगः || २ || संहतकेशः || ३ || नश्वरसुखवितरणसमर्था भगादि विषयाः संहता हिंसिना यस्य विषयरेसेष्वत्पन्नं निर्मूलितवासना इत्यर्थः | यद्वा | कं सुखं विषयादो बिंदुरूपः | प्. ३ब्) तस्य ईशः स्वामिकारणं सागररूपो ब्रह्मानंदः संहतो दृढसंधिसहितोनुभवपथमगतो यस्य स तथा विधिः | चिदानंदघन इत्यर्थः | शुधाध्ववासनंतरमवश्यं चिदानंदलाभ इत्यत एव मार्गवास इत्युक्त्वा | संहतकेश इत्युक्तं | दृढसंधिस्तु संहत इत्यमरः | वक्षमाणं देहादि दमनं कर्तुं स तां संगरर्चयेत्युपदिशति || ३ || भैक्ष्यचार्यवृत्तिः || ४ || भैक्ष्यं पुनः पुनस्तत्वोपदेशयाचना | आचार्येभ्यस्तत्वमस्यादि मंत्र व्याख्या कृद्भ्यः | सकाशाद्वृत्तिर्वेतनं यस्य सः | वेदान्तवाक्यश्रवणे नित्यमुद्यतमतिरित्यर्थः || ४ || सशल्क्ववंदुः || ५ || सशल्केत्वक्परिवृत्ते हे हे विश्वत्र वा प्रमेय दंडोदमनं | अनात्मनि आत्माभिमानत्यागेन निस्नेहत्वं यस्य सः | यद्वा शल्केषु शरीरलपितप्राणेषु अर्थात्कायवाऽऽन्मनस्स्वदमनं यस्य | त्रिदंडीस्या इत्यर्थः | उक्तं च | वाग्दंडोथ मनोदंडः कायदंडस्तथैव च | यस्यै ते नियता दंडाः स त्रिदंडीति कथ्यते || इति | ककारो वायुवाचकः | प्राणदमनेनैव मनोदंडः | मनः प्राणयौः | नित्य साहचरित्वात् || ५ || सप्तमुंजांमेखलां धारयेत् || ६ || बुद्धिमिति शेषः | मुजिशब्दे इति धातौ | सप्तसंख्यकाः | मुंजा | विमर्शाः | शुभेछाया भूमिकाः | योगशास्त्रे प्रसिद्धाः | ज्ञानभूमिः शुभेछाख्या प्रथमा परिकीर्तिता | विचारणा द्वितीया स्यात् तृतीया तनुमानसा || सत्तापत्तिश्चतुर्थी स्यात् ततो संसक्ति नामिका | पदार्था भावना षष्ठी सप्तमी तुर्यगा स्मृता || इत्येवं रूपाभूमिकाः || तत्र नित्यानित्य वस्तु विवेकादि पुरस्सराफलपर्यवसायिनी | मोलेछानामप्रथमा भूमिकाः || प्. ३ब्) ततो गुरुमुपेत्यवेदान्तवाक्यविचारः | श्रवणमननात्मको द्वितीया || २ || ततो निदध्यासनाभ्यासेन चित्तैकग्रतया सूक्ष्मतर वस्तुविमर्शयोग्यित्वं तृती || ३ || ततः परमशिवाद्वै तु साक्षात्कारणं चतुर्थभूमिका || ४ || इयमेव फलरूपा | असंसक्त्याद्यास्तु तिस्र अस्या एव विशेषः | आद्यासु तिस्रषु जाग्रदवस्थात्वं | द्वैतस्य भैदना च भासात् | चतुर्थी पुनः स्वप्नावस्था जगतो मिथ्यात्वावभासात् || ४ || निविकल्पकसमाध्यवस्था लक्षणा असंसक्तिः सुषुप्तिः || ५ || अतः स्वयमेव व्युत्थितो भवति योगी | ततः तदभ्यासपरिपाकेन या चिरकालावस्थायिनी सा पदार्थ भाविनी गाढस्वषुप्तिः || अतः परप्रयत्नेन व्युत्थानं || ६ || यस्यामवस्थायां न स्वतो न वा परतो व्युत्थितो भवति | भेवाभासस्यात्यंतमनव भासात् | किंतु सर्वत्र सर्वदा परमेश्वर मय एव परिपूर्णपरमानंदघन एव सर्वतस्तिष्ठति | सा सप्तमी तुर्यावस्था | इयमेव मेखलारूपा शुभेच्छादि सप्तभूमिकाप्रकारैर्विमर्शवतीं मे वेदे खं अकाशशरीरं ब्रह्मलाति गृह्णातीति | तथा विधां बुद्धिः सूक्ष्मार्थ बोधानुभावधारयेः | शुद्धब्रह्म भवेदित्यर्थः | एवं शुद्धं ब्रह्मसायुज्यं प्राप्तः सन् धनदारादि विमर्शत्यागो वश्यं संभवेदित्याह || ६ || न मधुमांस इत्यादि || न मधुमांसे अश्नीयाः || ७ || मधुमक्षिका संचितमधुतुल्योद्रवि संचयः | मांसरुधिराथं जगुप्सितं देहः | तौ उभौ नाश्नीयाः तद्विमर्शं त्यजेः | यदुक्त वासिष्टयोगे | धनानि नाभिवांछंते तमांसीवविवेकिना | इति | तथा च प्. ४अ) क्व मांसरुधिरादीनि क्व त्वं चैतन्य विग्रह इति | केचित् तु जीवाद्व्यतिरिक्तः | सकलो देहो मांसं | मांसे देहे | पुमेय रूपे | मधुनीवा | स्वादयति | नाश्नीयाः | किं त्वनासक्त एवास्वादबुद्धिमपहाय विषयान् प्रारब्धसंस्कारबलाद्यथा | प्राप्तं भुंजीथा इत्याहुः || ७ || क्षारलवणवर्जिस्याः || ८ || क्षाराविनश्वरा भावास्स्रक्वंदन नायिकायाः | तदीयं लवणं भावप्रधानत्वेन निर्देशस्य लावण्यं वर्जयति | तच्छीलः || १ || क्षरेषु तुछत्व भावनयानीरसा इत्यर्थः || ८ || आचार्यस्या प्रतिक्कुलः || ९ || गुरोः ब्रह्मैक परता भावपर्याय प्रातिकूल्य त्यागेन सदृशः || ९ || सर्वकार्याः स्वतंत्रः || १० || सर्वकार्येष्टीश्वराधीनत्वज्ञानेन निरहं मतिः || १० || पूर्वोत्थायी || ११ || पूर्वस्मिन्करणेऽजेनिदध्यासंनायोः युक्तमतिः || ११ || जघन्यसंवेशी || १२ || जघन्ये पश्चाद्भाविनि कार्ये नास्तीति | प्रत्ययादना संगेन स्वप्नः || १२ || यत्त्वांमुपेयात्तदस्मैदद्याः || १३ || यत्त्वां विकल्पसंमतं स्थूलसूक्ष्मं वोपेयात्मनः श्रयेत् || तदाऽचार्याय सकलप्रचोदकायेश्वरायदद्याः | मनो येनेश्वरेण प्रचोदितं तदंतर्मुखत्वे सकलं विकल्पितं विलापयेः || १३ || बहूनां येन संयुक्तस्तदस्मैदद्यात् || १४ || बपुना भवानां विकल्पितानां वा मध्ये येन वस्तुना विकल्पितेन वामं युक्तस्तेषु तेषु विकल्पेषु निमग्नो भवसि | तत्सकलं अस्मै | अस्मीति सर्वानुभवविषयायात्मनोदया | अपर्येः | अत एवागतं | एतेन स्थिति म द त एतद्भावं सर्वं नयेः || १४ || नास्य शययामाविशेषः || १५ || अस्यात्मनो लयाऽपरपर्यायां विस्मृतिरूपां प्. ४ब्) शययां नाविशेः आविष्टचित्तः सत्प्रबुद्धो भवेः | यदुक्तं | लये संबोधयेच्चितं विक्षिप्तं शमयेत् पुनरिति वेदांतिकि दृष्टि भावयनुपदिशति || १५ || नरथमारुहेः || १६ || नाप्यति वेगं मनोरूपं रथमारुहेः त्यक्त संकल्पः स्या इत्यर्थः | यद्वा रथं शरीरं नारुहेः | शरीरारोहनं च अनात्मनि देहेंद्रियादौ विषये | अतस्मिन् तद्बुद्धिलक्षणोऽध्यास एव त्वं प्रत्यगात्मासन् पुत्रं भार्याभिधेयेषु विकल्पेष्वहमेव विकलस्सकलोवेति | वाह्यधर्माध्यासं | तथा च कृशोहं स्थूलोहं तिष्ठामि गछामीति | देहधर्मा ध्यासं | तथा मुकःकाअणःक्लीवोबधिरोहमिति | इन्द्रिय धर्माध्यासं | तथा सुखी अहं दुखीन्प्रहसित्यन्तः करणधर्माध्यासं त्यजेरित्यर्थः | अत्यंतविविक्तयोस्तम प्रकाशवद्विरुध स्वभावयोः प्रत्यगात्मा नात्मनोस्तद्धर्माणां च अन्योन्याभाव एवेति जानीयाः | आत्मानं रथिनं विद्धिशरीरं रथमेव चेति श्रुतेः | अण्येर्मायादि कंचुकं वस्त्रस्थानीयमिति | शैवशासनमाह || १६ || न संवस्त्रयेथा || १७ || यथा न वस्त्रमिवावरणं मायादि भवेत् | तथा कुर्याः कोशत्रयवेष्टनं त्यजेत्यर्थः | वर्णितं च कोशत्रयं | यथा | परमावरणं मल इह सूक्ष्मं मायादिकंचुकं स्थूलं | बाह्यं विग्रहरूपं कोशत्रय वेष्टितो ह्यात्मा | आज्ञानतिमरयोगादेकमपि स्वं स्वभावमात्मानं | ग्राह्यग्राहक वैचित्र्येणावबुद्ध्येत इति || १७ || सर्वाणि सांस्पर्शकानि स्त्रीभिः सहवर्जयेः || १८ || समाहितः सन् सकलानि प्. ५अ) मनोनिवेशनोत्सादन मरणादीनिसंसंगकारणास्त्रीभिः रुपभोग्याभिरणिमादि सिद्धिभिस्समंवर्जयेः | ब्रह्मज्ञानविषयरस प्रतिबंधक त्वात्सिद्धीनां | केचित् प्रयोजकामिनः | पुरुषा एव ज्ञेयाः | भोगाभिलाक्षिणो मर्त्याः कामिन्यः कथिताः बुधैः | तद्भोगिनां त्यजेत्संगं कामिनीसंगवन्नर इत्युक्तत्वादित्याचक्षते | प्रकृतिपुरुषविवेकज्ञानं सांख्यशास्त्रसिद्धसुपदिशति || १८ || न मुषितां प्रेक्षेः || १९ || भवतः पुरुषस्य गुणमययाप्रकृत्यासंयोगेपि सति | मुषितां सर्वै भुक्तभोगां प्रकृतिं न प्रेक्षेः | प्रकृतिरपि अन्यापुरुषोपि अन्य इति विवेक ज्ञान्भवेत्यर्थः | यद्वा ब्रह्मणोऽभेदं बुद्ध्याग्रहीत्वेन निस्सारं सिद्धिं प्रेक्षितुमर्पि न चोचितं | भेदानुपदाने तु सिद्धिमत्वमपि न दोषायेति भावः || १९ || न विहारार्थो जल्पेः || २० || यतस्त्वं केलिं मपहायानन्यप्रयोजनः | ततश्चातुर्य प्रख्यापन् | जल्पनं न विदध्याः वाचो विग्लापनं तत् नानुध्यायेद्वपून्छब्दान्वाचो विग्लापनं हि तत् इति श्रुतेः || २० || न रुच्यर्थं किंचन धारयेथाः || २१ || यत्र लोकोत्तरानंद जनने ईदृशस्यते रुचिः | तदुक्तं | किमपि न धारयेथा एव | यद्वा जीवन्मुक्तदशायां किं च | किमपि वस्तुरुच्यर्थेन न धारयेथाः | यस्मिन् वस्तुन्यभिलाषो भवेत् तत्रैवावतिष्ठेत्यर्थः | यत्र रुचिस्तत्र विधि यत्र च नास्ति तत्र निषेधः | इत्यस्माकं विवेको हृदयपरिस्पंदमात्र शास्त्राणामित्युक्त त्वात् | विज्ञानभट्टारकेपि | यत्र यत्र मनोयाति तत्र तत्र धारयेत् | चलित्वा यास्पते कुत्र सर्वं शिवमयं जगदिति || प्. ५ब्) अथवा | किं च न वस्तुजातं | अभिलाषार्थं न धारयेथाः | कस्मिंश्चिदपि पदार्थे रागोनुविधेय इति तात्पर्यम् | एतश्चारुरुक्षुदशायांमवगंतव्यम् || २१ || नस्नायाः || २२ || विषयेषु न ह्रदनीयं | यद्वा | स्वात्मनः शोधनं तव न कर्तव्यं | स्वत एव निर्मला चिद्रूपत्वान्नैव शौचापेक्षा इति च | यदुक्तं | नित्य निर्मल एवायं स्वत सुंदर ईश्वरः | घटादि देवगृहवत् क्षालनं नार्हति प्रभुः || २२ || उदकं वाभ्युपेयाः || २३ || उदकं अश्च दुःखं वौषपिकं रसमेव नांगी कुर्याः | वाकारो निषेधार्थः | धातवश्चोपसर्गश्च निपातश्चेति तत्त्रयः | अनेकार्थ लताः सर्वे पाठस्तेषां निदर्शनमिति || यद्वा | उदकं जल जडं विषयात्मकं भोग्यवर्गं अभ्युपेयाः संमुखत्वेन भोक्तृरूपेणांगी कुर्याः | वाकारोत्र विषयक्रीडनात्मकपक्षांतर व्यावृत्यर्थः || २३ || यदि स्नाया दंड एवाप्सु परिलेवेथाः || २४ || यदि विषयभोगं विदध्याः तर्हि न तद्रसेष्वासक्ताः स्याः || २४ || मुंडो जटिलो शिखि वा भव || २५ || ईदृशस्यते वह्यदेहधर्मे मुंडादिभावेन ग्राह्यः | सर्वथात्वं मुक्तः किं मुंडः स्यांमुनजटिलो भवेयमिति | विमर्शे वाह्याचार विषयं त्यज | यथारुचि | तथा बहि तिष्ठेति तात्पर्यं | यद्वा | वाचार्थे मुंडःकेशापरपर्याय सकलविषयत्यागी मुंडिखंडने इति पांडवः | जटिलस्सकलविषयग्राही | जटसंघाते | शिखीज्ञानतेजोमयश्च स्याः बाह्ये देह शिरसि अपि शिखाधारणं | अभ्यंतराया ज्ञानज्वालायास्स्वरूपमेव बोधयति | बाह्यकपालविषये स्थिताः | प्. ६अ) केशचंद्रकरूपिणी वाह्यशिखा | अभ्यंतरायाः संविज्वालायाः शिखाशब्द वाच्यायास्तत्वं ज्ञापयति | सर्वातीताज्ञानज्वालेति | इति वाह्यशिखापि | अभ्यंतरस्य तत्वस्य ज्ञापिकैव | एवं वाह्ययज्ञोपवीतादिषु ज्ञापकत्वमेव बोधव्यं | यदुक्तं | ज्ञानदीपशिखायासौहृद्व्योमांतरचारिणी भित्वा कपालकुहरी द्वादशांतोर्धगामिनी || २५ || सायं प्रातस्संध्यामुपासीथाः || २६ || अवसिते दिनरूपे लोकव्यवहारे अनुद्गतायां च रात्रिरूपायामविद्यास्तमयात्मिकायां समाधि दशायां योमध्येऽभिसूक्ष्मतरोऽनुश्चार्योद्दशश्चिदेकरूप आत्मासंध्यातामुपासीथाः अनुसंदध्यः | यदुक्तं | विज्ञानतंत्रे | अनागतायां निद्रायां प्रनष्टे वाह्यगोचरे | सावस्था मनसागम्या परादेवी प्रकाशते || परे तत्वे च संधानं संध्या इति च कथ्यते || २६ || तिष्ठे पूर्वां || २७ || पूर्वां संध्यां लोकव्यवहारे क्षीयमाने अंतर्मुखत्व लक्षणायां संध्यायां तिष्ठेः | अंतर्मुखभावे उत्थानमुद्योगं विदद्याः || २७ || आसीथा उत्तराम् || २८ || अंतर्मुखस्य योगिनो व्युत्थान दशायां क्रमेण संभवंत्यां या मध्ये संध्या उत्तरा तस्यामेवासीथाः | अंतमुख भावत्यागेन व्युत्थाने वृत्ति कुर्या इति भावः || २८ || ओं भूर्भुवस्वरित्युक्त्वा | तत्सवितुरिति सावित्री मनुब्रूयाः || २९ || ओं ब्रह्मभूर्भुवस्स्वः सकलं विश्वं सर्वं खल्विदं ब्रह्म इत्यर्थः | इत्युक्त्वा | इत्थं विमृश्य तत्सवितुवरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् इति सावित्रीं गायत्रीं चिदादित्य संबंधिनी दीप्तिमनु ब्रूयाः | सर्वत्र सर्ववाऽनवरतमभ्यस्येः प्. ६ब्) तत्प्राक्रांतं | ओंकाराख्यं सर्वत्र प्रसिद्धं च सर्वैरनुभूतं च चिदादित्यस्य देवस्य विश्वनिर्माणे क्रीडाशीलस्य सर्वकर्तुः सर्वव्यापकत्वेन द्योतमानस्य सर्वोत्कृष्टस्य सवंवंयस्य सर्वज्ञस्या * * ति प्रसिद्धस्य अंतर्यामि रूपतया सकलधी प्रेरकस्य ब्रह्मणः परप्रेमास्पदत्वेन रमनीयं | तेजो निजं | प्रकाशरूपमात्मत्वे | भावयामेन देहादिष्टात्माभिमानं भजाम इत्यनुसंदध्याः | एतेन सवमात्मत्वेन भावयेरित्युक्तं भवति || २९ || प्रागस्तमया निष्क्रम्य | समिध आहारे | हरिणी ब्रह्मवर्चसकामः || ३० || ब्रह्मतेजस्कामस्सन् | अस्तमयात्समाधेः | प्राक् निष्क्रम्य व्युत्थायहरिणीः | अख्याति हरिणी समिधः | साद्राणि दृढयुक्तीनि | ब्रह्माग्नि संदीपनानि शास्त्रादिज्ञानानि आहारेः | सत्यपि समिधौ नैवोपयोग्यानि | इति श्रुतिरिति श्रूयते || ३० || सायं प्रातस्संध्यानि स्मरणं कर्तव्यं || ३१ || सायं प्रातरिति सकलोपलक्षणं | समस्तमहोरात्रं | संध्योपासना यानि स्मरणं | नितरां गमनं | देहात् पृथग् भूयचिति विश्रामः कर्तव्यः यदि देहं पृथक् कृत्यचिति विश्रमतिष्ठसि | अधुनैव सुखी शांतो बंधुमुक्तो भविष्यसि | इति वचनात् | संध्या च विद्याविद्ययोर्मध्यं | तदुभय बहिस्तं तदुभयव्यापकं च परं तेजः || ३१ || भैक्षाचरणं कर्तव्यम् || ३२ || सायंप्रातः भिक्ष तस्य तत्वोपदेशस्य चरणमंतश्चमत्कारो विधेयः || ३२ || अग्नींधनं कर्तव्यम् || ३३ || तेन च ब्रह्माग्नेर्दीपनं विधेयं || ३३ || सायमेवाग्निर्मंधीथाः || ३४ || इत्येके सायंमस्तमित प्. ७अ) एव लोकव्यवहारे | ब्रह्माग्निरोपनं कार्यम् | तत्सत्वे तदसंभावादित्येके || ३४ || भैक्षस्याचरणेत्यादि || ३५ || ....................... भैक्षाचरणाग्नींधनी || ३५ || सप्तरात्रम् || ३६ || सप्तानां स्रोतसां नेत्रगोलकद्वयं कर्णद्वयं नासारंध्रद्वयं सुखं च | इति सप्तस्रोतसां रात्रिसंध्यां | शब्दादिविषयभोगस्याननुभवो यथा भवति | शब्दादिभोगान् परिहृत्य इति यथा भवति | तथा अच्छुत्वा | यद्वा | सप्तरात्रमिति चिरमुक्तत्वा | अवकीर्णीक्षतब्रतो भवेत् | इति ब्रतं प्रायश्चित्तं कुर्यात् | प्रायश्चित्तमात्रं सप्तगारमिति | बहुभ्य आचार्येभ्योभिक्षित्वा | सत्संगविधाय | सकर्मोक्तं परिकीर्तयन् | विमृशन् | तेभ्यो लभ्योनोपदेशेन | एककालकं वर्तयेत् | व्युत्थानंमुपहाय | समाहित एव वर्तते | उपस्पृश्य उपस्पर्शनं शोधनं | समाधिलक्षणं त्रिषवणमहोरात्रं विधाय | कामवकीर्ण इत्यादि च विमृश्य | यथात्वमीश्वरत्वामावकीर्णः कामेषविक्षिप्तः प्रचोदकरूपेणादौ संवृत्त एव | अतस्तश्चोदनाऽतोहमपि तादृशोभूतः कामानामभिलाषाणांमभिलाष भूताय ते नमः | ममाभिलाषतस्त्वं ययन्मांकारयसि | तन्मे दोषाय इत्यर्थः | कामाभि दुग्ध इव | कामैर्हिंसितः | कृत संगतिः अन्यथाः | तत्प्रचोदकत्वाभावात् | अन्यत् समानं अब्देन मेघेन समाधिना | प्रसंख्यानेप्यऽकुसीदस्यं सर्वदा विवेकाख्याति धर्ममेघः | समाधिरिति | कृतलक्षणेन समाधिना | यद्वा | अब्देन बहुकालेन | शुद्धतीति भद्रं | प्. ७ब्) ओं इह यदिंद्रियैष्वाह्यैगृह्णाति वस्तु तदेवास्य पुरुषस्यांतर्वा सनारूपं | सद्बंधतयापरिणमनीति | ब्रह्मचारिणो यद्वागादि | वागादींद्रिय ग्राह्यं | तद(स्य)हमिदं गृह्णामि इत्यप्रत्ययेन बंधकं माभूदित्याशास्ते गुरुः || ३६ || छृणु तु त्वा वाक् || ३७ || इत्यादि | वाक्वेदरूपत्वा | त्वा छृणु तु | उछृदिरदीप्तिदीवनयोरिति धात्वनुसारात् | दीपयतु सर्वत्र ब्रह्मभावनयाहं | पठाम्यडि जानामि संकल्पयाम्यहमित्याद्यभिमानलक्षणज्ञानतमो भेदनेनु प्रकाशयतं करोदवय तच | थक् | हविषमन्नं इछाशक्तिरूपं | पयोगीक्षीरं नत्वजपाः | ज्ञानशक्तिरूपश्च हविहूयमानं | घृतादिशब्दस्पर्शादिकं च | रसा आस्वादिमाने | मधुरादिसंकल्पक्रियाशक्तिरूपश्च | सोमोऽमृतयज्ञशेषः | विषयानंदश्च | यज्ञो देवयजनं | शब्दायाहुति | प्रक्षेपेणेद्रिय तृप्तिश्च | ब्रह्मसचिदानंदलक्षणं | वेदगम्यं प्रजापतिः सृष्टिकर्ता मनोलक्षणः ब्रह्मचारि गुरुवचनमशालिरूपं | आशीर्वादिरूपमुपदेशं श्रुत्वा | सर्वत्र वाढमेवमस्त्वित्याह | उपदेशं सनम्य धारयति || ३८ || यद्वेदब्रतं तदत्र ब्रतम् || ३९ || यद्वेदे उक्तं वक्षमाणरूपं ब्रतमभिहितं | तदत्र ब्रह्मचार्यये ब्रतं भवति | अवश्यं गृहीतव्यमित्यर्थः || ३९ || गुरुराह || ४० || ब्रह्मचार्यऽसीति || ४० || पंचविकाराननुक्रमिरुष्यामः || ४१ || ब्रह्मचार्यसीत्यादीन् पंचविकारान् विशेषेण कार्यान् अनुक्रमिष्यामः | नानेवाह प्. ८अ) ब्रह्मचार्यसि | सत्यं | ब्रह्मसत्यज्ञानात्मकं चरनिजानानीति | ब्रह्मचारी ब्रह्मवित् | असीति भवननुब्रह्मचारी | मधुरादिरसान् भुंजीत नवेत्याशक्याह || ४१ || अपोशान || ४१ || अप इति आप्यादीनां सर्वेषांमुपलक्षणं | तेन सकलं भोग्यं भुंक्षेत्यर्थः | ननु भोग्यग्रस्ते मनसि कुत एव ब्रह्मज्ञानविमर्शदार्ढ्यं भवेत् तत्राह || ४१ || कर्म कुरु || ४२ || कर्मणा भवेदित्यर्थः | किं तत्कर्मेत्यपेक्षायामाह || ४२ || दिवामासुष्वाप्सीः || ४३ || दिवादिवसे चिदादित्य प्रकाशकाले मासुष्वप्सीः | प्रकाशमने सर्वव्यापके ब्रह्मणि प्रमत्तो मा भूः | भोग्यभोगदशायामपि | आस्वाद्यास्वादकरूपं भोक्तारं ब्रह्मजानीया | इति तात्पर्यम् | स्वप्रकाशकं स्वाकारं स्वस्मिं स्थितं ब्रह्मकथमपह्नव विषया | तद्व्यतिरेकेन स्वयमेवावमंचोविदषुरिति भावः | विषयचिंतां निवारयनुपदिशति || ४३ || वाचं यश्छ || ४४ || वाचमात्यंरी मध्यमालक्षणं वाचं शांता कुरु विमर्शपरित्यज्य चिद्विमर्षं मनसि निधाय सर्वत्रानासक्तो भुक्ष्वेत्यर्थः | भोग्यचिंतादायिनमविद्यावत्संगं त्याजय आह || ४४ || मामलवद्वासोद्राक्षीः || ४५ || मलं त्रिविधं | अपूर्णमन्यता भिन्ने वयप्रथ्य शुभाशुभवासना स्वरूपाणवमायीय | कामं स्वरूपेण त्रिप्रकारं मलं | उपाधि वियते यस्य तत् मलवत् | एवं विधिवासः आवरणं | माया जगदं परपर्यायं एषां तान् मलवाससः न पश्येः || ४५ || मासं भाषेथाः || ४६ || तै सहसंभाषणमप्ययोग्यं || प्. ८ब्) तत् संगस्य मोहप्रवर्तकत्वात् | अर्थादपलक्षद्वाससां | शुद्धबोधविमर्शवतां जात्याकारायुपाधि शून्य ब्रह्मैक स्वरूपं जगत्पश्यता संगो विधेय इत्यर्थः | तदुक्तं | संगस्सर्वात्मनात्याज्यः सचेत्यक्त्वं न शक्यते | ससद्भिरेव कर्तव्यस्संगदोषो हराहिते | इति ततश्च || ४६ || मलवद्वाससो भवंत्युदक्याः सूतिकाः आशुचयः | अंत्यावसायिन इति || ४७ || उदक्याः रजस्वलाः सूतिकाः अनुल्लंघितदशाहाः प्रसूताः स्त्रियः श्वपाकाः युक्कसस्त्रियः आशुचयः सुवर्णाश्रमधर्मशुद्धि विकलाः अंत्यावसायिनः चंडालाद्याः | एतश्च | ये केपि संगं नार्हंति तेषां सर्वेषामुपलक्षणं | उदक्याद्या | उदक्या न भवंति | मलवद्वासस एव जीवाः | उदक्याद्यान भवंति | मलवद्वासस एव जीवाः | उदक्याद्या न भवंतीत्यन्वयः | सर्वं वाक्यं सावधारणंमित्यत एवैवकारो गंतव्यः | अमलवद्वाससश्चे उदक्याया अपि भवेयुः | तदा तत्संगो नैव दूष्यः | यदुक्तं वैष्णवशास्त्रे | विशत्म षड्गुणयुतादरबिंदनाभ पादारबिंदविमुखाच्छूपचंवरिष्टम् | मन्येतदर्पित मनोवचने हितार्थ प्राणं पुनाति सकुलं ननुभूरिमान इति || यथालोक उदक्यादि | संगं पातककरणत्वात्त्यजति | तथा ब्रह्मचारी अज्ञानसंगं त्यजेदित्यर्थः भावः || ४७ || न श्मशानं गछेः || ४८ || अस्थिमांसादि संकुल त्वात् | श्मशान देहं न गछेः | देहोस्मीति | अभिमानं त्यजेदिति भावः || ४८ || न शवशरी पश्येः || ४९ || शरीशरीरोपलक्षणं सकलं जगत् | चिदोतप्रोतांगप्रत्यंगत्वा भावेन देहमात्रेण पश्येन्न जानीयास्तस्य देहस्य तदभावे भावात् | चिन्मात्रत्वात् | नत्वविद्ययाविस्मृतात्म तत्वस्य तदज्ञाने प्. ९अ) किं विधेयमित्याशंक्याह || ४९ || अनातृणं शवशरी दृष्टात्रिरात्रमुपवसेः || ४० || अनातृण मनाछादितं | चिन्मात्रत्वदर्शनेनानिरस्तचेत्यभावम् | शवकल्पं स्वदेहं जगत्वा स्वदृष्ट्वा त्रिरात्रं बहुकालं त्रयाणां ज्ञातृज्ञानज्ञेढ्यानां रात्रिरस्फुरणं यथा भवति तथा वा उपवसेः उपवासं चिदेकता न ता चित्तवृत्तितया समस्तेंद्रियाणां | बाह्यवस्तुस्पर्शाभावलक्षणं समाधिं विदध्याः | यथात्वां पुनरपि नाज्ञानां स्पृशेत् || ४० || मधुमांसे प्राश्यालभ्य वा शरीरं पुनर्ब्रतमालभेथाः || ४१ || मधुमांसे सकलभोग्योपलक्षणे वा पूर्वापेक्षे मधुमासे प्राश्यसकलं भोग्यं भुंजानः | तेन च शरीरमालभ्यदेहं गृह्णन् देहाभिमानी सन् | पुनर्ब्रतं त्त्यागलक्षणं शुद्धस्वस्वरूपावस्थानं गृह्णीयाः | मधुमांसे प्राशनेन करणं तृप्ति विधायकरसिकभोग्यपदार्थभोगोपलक्षते | भोग्यभोगावेशश्चेत् संपद्यते तर्हि शरीरमालभ्य मारयित्वा पुनर्ब्रत चितस्थितिरूपं विदध्याः | आऽऽन्पूर्वोलभिर्मारणार्थः | अत्र देहालंभनं देहधिक्कार एव न तु विशसनं | तस्यधिगिमंदेह यदर्थमधः पातनदेतु रसिकभोग्यावेशो मम जायते | कुत इत्याह || ५१ || यानि हविर्दूषणानि तानि भोजन डू? || ५२ || यानि अग्नौ हविरिवात्मनि नार्पितानि | तानि भोक्तुं दोष तद्भोजनेन पातित्या पेतुः आत्मार्पित सकल व्यवहारो भुंजेरित्यर्थः || ५२ || नोच्छिष्ट भुंजीथाः || ५३ || उच्छिष्टमत्र शब्दादि विषयोक्तं सुखं सर्वैरुपभुंजत्वात् | तद्भोगः पात्यतिकरणं || ५३ || नोच्छिष्टमन्यस्मैदध्यः || ५४ || उच्छिष्टमपि विषय सुखं भुज्यते | यदि तदानास्मै दध्याः | किंतु चिदात्मन्येवार्पितं कृत्वा निछयानासक्तो भुजेः | प्. ९ब्) ननु एतद्गुरुभिरनुभूतत्वे नोच्छिष्टं सहजसुखमपि | ततश्च कथमनुभवनीयमित्याशंक्याह || ५४ || कामं गुरुच्छिष्टमश्नीयाति ह्याचार्याः || ५५ || गुरुभिरनुभूतस्य परमार्थिक परमानंदानुभवे यन्नो विधेय इति एतत् ह्यर्थे | यतो गुरुवनुशासनमित्यर्थः | एतेनानासक्ति भोगे प्रतिषेधा भावात् प्रसक्तं भोधिक्यं प्रतिषेधयति || ५५ || मा गुरुभुंजीथा || ५६ || चिताव्ययतोपाय भूतप्राणसंधारणार्थं | किंचिद् भोक्तव्यं | न पुनर्भोगाधिक्ये विधिरित्यर्थः | कुर्यादाहारं प्राणसंधारणार्थमिति वचनात् || ५६ || व्याधितविषयमेतत् || ५७ || एतद्गुरुभोजनप्रतिषेधवचनं व्याधितोऽत्राधिकृतमित्यर्थः | यस्य गुरुभोगे विशिष्टा आधिश्चित्तपीडा आशक्तिरूपा भवेत् तस्यायं निषेधः | न पुनर्भोगेष्वनासक्तस्य विधिर्निषेधो वात्रेति भावः | ननु कदाचित् संमृति व्यवहृतिर्वायुना तूलस्येवेतस्ततो भ्राम्यमानस्य विषयरसनिमग्नस्य विस्मृतात्मनो विषयासक्तिर्भवेद्यदि कस्तदा तन्निराकृतावुपाय इत्यपेक्षायामाह || ५७ || येनेछेत्तेन चिकित्स्येत् || ५८ || येन स्वतंत्रेश्वर नियमेन छेदासक्तो भवेत् | तेनैव चिकित्सां कुर्यात् | अयं भावः त्वया ईश्वरैकतानेन भाव्यं | ईश्वर एव तु यथा मिथ्याविषयान् ग्राहयति | तथा पारमार्थिक सहजसुखप्रणवं मनोविधाय | विषयेभ्यो निवर्तयति च न पुनर्निजः कोप्यपायः | ईश्वरोपासनान्निवृत्तिस्त्वया कर्तव्य इति | यद्वा येन हेतुना यस्मिन् विषये इछानान्नैव कृत्वा चिकित्सेत् | तमेव भोगमात्रया दत्वा चित्तवालकं विनोदयेत् | अन्यथा काष्टाप्राप्तं विषयारोहणं चित्तस्य संभवेदित्यर्थः | अत्यंतं विषयत्यागेन प्. १०अ) विषयात्प्रतिचित्तं धावति | अनिछया इछयदृछाप्राप्तेन भोगेन वा विषयेभ्योवतरंत्येव चित्तमिति स्वभाव एव चित्तस्यैषः | यदुक्तं | अहोनुचेत सच्छित्वागतिस्त्यागेन यत्किल | आरोहत्येवर्विषयाञ्छेयांस्तांस्तु परित्यजेत् || इति || ५८ || ननुक्तं भुंजेथाः || ५९ || वैवार्थे उपज्वाल्यैव तद्दत्तमनस्कत्वेन चित्प्रकाशं सर्वप्रकटीकृत्येव भुंजीथाः सर्वेत्र चिन्मयत्वभावनयांतर्मुख एव व्युत्थानेपि सन्समाधिसंस्करा स्तुतः क्षीव एव भोग्यं भुंजीथा | न पुनर्भोगभावनयेति भावः || ५९ || न मृण्मये भुंजीथाः || ६० || मृण्मये देहे निमित्त सप्तमी यं देहपुष्टार्थं ये शब्दादि विषयाः तान्भुंजीथाः विषयत्यागं कुर्यादित्यर्थः || ६० || न प्रतिसंदध्या इत्येके || ६१ || संधानस्य प्रतिकूलं प्रतिसंधानं त्यागः न त्यागं कुर्यात् | अनासक्त्या हि भुज्यमाना अपि विषयादूष्याः स्युरित्येके मुख्या आचार्या आहुः || ६१ || स्थानासनं || ६२ || तिष्ठत्यस्मिन्देहेति स्थानं कायः तदासनं | तत्त्यागो देहाभिमानविरहः कर्तव्यः | असुक्षेपसो तिष्ठत्यनेनेति वा स्थानं सवित् | तत्रासनं एकतानताविधेयेत्यर्थः | आस उपवेशने || ६२ || पूर्वांतरेषूपवासो वाग्यसनं च || ६३ || सत्सप्तमी यं पूर्वोक्तं वान्थमनं च तदा भवेत् | चेत्यर्वांतः पर्वाणां ग्रंथीनां बंधनानां कामक्रोधादीनां मत्तानाशाः स्युः संबधिबहुत्वाद्बहुवचनं || ६३ || किंचिदग्नि यतं दृष्ट्वा प्राणायामैस्सशुद्ध्यते || ६४ || किं नपि अप्रयतं | अशांतं यथा भवति तथा इदमनोज्ञं पश्याम्य मनोज्ञं वानेन हितं मे भवत्यहितं वेत्यासक्त्यादृष्ट्वा तेन च तदुपहितत्वेनापवित्रः सन् | प्राणायामान्विधाय शुध्यति | प्राणायामश्च प्राणानां जीवभूतानां स्नेहविषयानां स्रगादिसकलभावानामायामः प्. १०ब्) सर्वत्र ब्रह्मभावनया निर्विषयत्वेन मनसो वृत्तिनिरोधः | समाध्यपर्यायाः बहुवचनं च विषयापहृतचित्तस्य स तः पुनः पुनब्राह्मैकता नताया विधेयत्वमाह | अभ्यासेन कौंतेयेत्युक्तेः | अथवा प्राणस्य प्राणं चक्षुषश्चक्षुरिति श्रुतेः | सर्व जीवस्य दीर्घीकरणं च संकुचितत्वं विगाल्प निखिले प्रमेय पटले चित्प्रकाश खचितत्वमेव नान्यत् किंचित् | प्राणस्य सर्वजीवस्य परमीश्वरस्याया दीर्घीकरणानि तै शोधनं चिद्विमर्शबाहुल्येनैव शोधनंमिति यावत् || ६४ || संदर्शने त्रयः कार्याः || ६५ || त्रय इति मितित संख्याः दर्शमात्रेणेषन्मलिनस्य मनाचपयासेन शुध्यापत्तेः || ६५ || संव्याहृत्याथो सप्त || ६६ || सप्तेति बहूपलक्षणं | अथोदर्शनांतरं व्याहृतौ बाह्ये तद्वचनरूपे अभ्यंत्तरे तश्चिंतालक्षणे च व्याहरणे सति सप्तकार्याः दर्शनादनंतरं च तच्चिंतयतोत्यासंगेनाधिकं मालिन्यमापन्नस्य बहुनायासेन शुद्धेः | अत्यर्थं ब्रह्मैकतानया विषयगतमपि मनः पुनः प्रत्याहर्तव्यम् || ६६ || समासाय तु द्वादश || ६७ || द्वादशेति बहतरोपलक्षणं | अथो इति अत्राप्यन्वेति | दर्शनमरणांतरं समासाद्य तद्विषयदत्तमनस्केन तत्तां विषयतां आश्रत्यद्वादशकार्यः अधिकतरं मलिनस्याति बहुनायासेन शुद्धेः पुनः पुनः अपि अत्यंत समाहितेन भाव्यं | कथमेतेन शुद्धतीत्याशंक्याह || ६७ || सर्वत्र ज्योतिर्दर्शनमुदकोप स्पर्शनम् || ६८ || सर्वत्र शुद्धौ ज्योतिषः प्रकाशस्य दर्शनमेवोदकोप स्पर्शनं शुद्धिहेतुरित्यर्थः | किंतु ज्योतिरित्यपेक्षायामाह || ६८ || सूर्याचंद्रमसौगौ अग्निः ब्राह्मण इत्येषामेकेनापि शुद्धेति || ६९ || यानीमानि सूर्यादीनि | पंचज्योतींषि | तेषां सारभूतमाकाबुद्धित्यागादात्मरूपमेकमेव यज्ज्योतिरपि शब्दादाकाररूपतया भिन्नमपि अस्ति | सूर्याद्याकाराणां | तस्मिन्नारोपितत्वेन | तद्रूपताव्यतिरेकणासत्वात् | प्. ११अ) तद्भावनापायात् | तस्मिन्नैव ज्योतिषि परे तेजोरूपं चिदात्मनि दृष्टे स्वात्मतयानुभूते शुद्ध्यते जात्याकारायुपाधिमालिन्यं त्यजेत् | तद्दर्शनार्थमेव च | विषयप्रत्यहारापरपर्याय ब्रह्मैकभावरूप प्राणायामकरणमुपदिष्टम् | इत्युपदेशं श्रुत्वा ब्रह्मचारी बह्वाया ससाध्यं | ब्रह्मज्ञानमन्वानो दीक्षामेव शरणं श्रयति || ६९ || अवध्वं मनोदरिद्रं चक्षुसूर्यो ज्योतिषा श्रेष्ठो दीक्षे मामाहिंसीरिति सूर्यं दिवाग्निं रात्रौ || ७० || अवध्वं चंचलं मनः नैकत्र ब्रह्मणि दृढी भवति | दरिद्रं चक्षुः विषयानुभवं विधायापि न निराकांक्षतामेति | तेन चानीतेषु विषयेषु मनः सज्जति | यश्च सूर्यश्चिदर्कः शुद्धिकरणं सज्ज्योतिषां श्रेष्ठः | अनुत्तमं ज्योति न पुनः वाह्यसूर्यादि दिवा बद्धेनापि मनसा दरिद्रणानापि वा चक्षुषा गृहीतुं शक्यः || ७० || दीक्षे मामाहिंसीरिति || ७१ || सूर्यं दिवाग्निं रात्रौ इति शब्दे भिन्नक्रम इति हेतोः | हे दीक्षेत्वामेव शरणं श्रये | त्वमेवोक्त वक्षमाणोपदेशरूपा | विस्मृति माया तामसी | दिवासूर्यमिव रात्रौ वह्निमिव स्वप्रकाशं रात्रिर्दिवं सकलवेय भासकं ब्रह्म || ७१ || मामाहिंसी || ७२ || विस्मारित स्वरूपत्वेन सर्वत्र भवदस्य भावमापद्यमानमिव | न कुर्वैः | यदैव मे स्वात्मरूपमपि ब्रह्मविषय ग्रहणेन विस्मृतमिव भवेत् तदैवागत्य विषयापहारं सर्वत्र ब्रह्मभावनया विधाय ब्रह्मप्रकाशं दध्या इति भावः | परतेजसो व्यापकस्यापि विस्मृति संभावनया विह्वलमिव दृष्ट्वा तन्निराकरणोपायमुपदिशति || ७२ || रेतसि स्कन्ने पुनर्मामैत्विंद्रियमिति जपेत् || ७३ || रेतसि सकलबलरूपे | स्वात्मपरपर्याये ब्रह्मणि स्कन्ने विस्मृति सति | पुनर्मामैत्विंद्रियमिति विमृशेत् यथा || ७३ || पुनर्मामैत्विंद्रियं पुनरायुः पुनर्भगः पुनर्ब्रह्मणमैतु मापुन द्रविणमैतुमा | यन्मेयरेतः पृथिवीमस्कन्य दोष धीरध्यसरध्यदयः | यन्मे रेतः प्रसिच्यते | प्. ११ब्) यन्म आजायते पुनः | यद्वा मे प्रतितिष्ठसितेन माममृतं कुरु | तेन सुप्रजसं कुरु || ७४ || समाधि दशायां मृतेंद्रियमपि | इंद्रियं चक्षुरादि | मामैतु गछतु | न ह्यागछत्यपि तस्मिन्नारोपितत्वेनासत्यभूते | कापि क्षतिर्मे | कीदृशमिंद्रियं पुनरायुः पुनरिति वह्वर्थे | वह्वायुश्चिरकालमासमाधेर्वर्तमानं काल्पनिकेन रूपेण पुनः कीदृशं पुनर्भागः बह्वैश्वर्यं नानाग्राह्याग्रहणसमर्थं छांदसो लिंगविपर्ययः | पुनश्च विषयांतर्हितं ब्राह्मणं ब्रह्मज्ञानं | मामैतु | पुनर्द्रविणं हृदयंगजनिहितं | परतेजोरूपमैतु | समाधौ व्युत्थाने च न कापि मे हानिः समं सर्वत्रावस्थितस्येति भावः | यन्मेयरेतः पृथिवीमस्कन् सकंदिरगतिशोषणयोः | अस्कनिति छांदसमाख्यातं यन्ममरेतः चिद्रूपं बलं पृथिवीं गतं पृथिवीरूपं सपन्नं यश्चोषधीरध्यसरत् | गतं यश्चापः पुनस्त्वर्थे तद्बहुरूपमपि संपन्नं अहमेवादधे | न तन्मद्रूपतामति क्रातमपि बहुभूतमपि येनाह विस्मृतात्मेवस्यां | यन्मे मम निजं रूपं रेतः सकलबहुरूपं चैतन्यं प्रसिच्यते | विषयेषु सिक्तमिव भवति | यन्मे आजायते | आसमंता प्रकटं भूयो भवति | यश्च मे प्रतितिष्ठति विषया ननु भवदपि | प्रतिष्ठतमच्युतमिव वर्तते | तेन चैतन्येन मामृत कुरु | तच्चैतन्य प्रणवमनसो हि मत्तो मृत्युरपि विभेति | तेन च सुप्रजसंमत्तो या प्रजासंततिरूपेच्छाज्ञानक्रियालक्षणोदेति | ताशोभनां मे हितामत्यक्तमात्मादृशां कुरु | इति सकलपापेंधन दाहकस्य चिदग्नेरभ्यर्थाना | एतद्विमर्शेन सदेव विश्वस्मिन्क्रीडन्मम्राडिव निर्धनं प्रतिपक्षोरिश्शंकं सर्वं भ्राजयतीति शिवम् || ७४ || अथ चातुर्होतृकव्रतशिक्षा || ७५ || प्. १२अ) ननु चिन्मनो बुद्ध्यहंकारलक्षण वासुदेवसंकर्षण प्रद्युम्न अनिरुद्धाश्चत्वारश्चेच्चातुर्होतृके सकलं जगत् | आ *? निज्वह्वता होतारः उपास्या तत् द्वैतापत्तिरिति नेत्याह || ७५ || न चतुर्भिः सहासीथाः | न चतुर्णां समक्षं भुंजीथा | न चतुर्भिः सहासीथाः || ७६ || तेषु उपास्य बुद्ध्य तत्संगं गत इव नासीथाः | आस्तांवोपास्य बुद्धिर्यत्र तेषां स्थितिर्भवेत् तत्र बीजमिवांकुरु रूपत्वया परिणतं | भावानेव | तदुत्तीर्णेन स्यात् | तद्रूपतया परिणामात् | ततश्च न तैस्सहासीथाः | तेषूपास्य बुद्धा च | तदपि तत्वेन भुंजीथाः किं तु ब्रह्मभावनयैव सकलं भोग्यं भुंजीथाः | चतुर्णा तेषां ब्रह्मरूपत्वाव्यतिरेकात् | ब्रह्मवै चतुर्होतर इति | श्रुतेश्चतुर्होतृके | तेषामुपास्यता कथनं चिदव्यतिरिक्तत्वाध्यापनाय | एतदेव विषदयति || ७६ || एकतमोवा भुंजीथाः || ७७ || एकं ब्रह्मैवसन्भुंजीथाः ब्रह्मज्ञानेन ब्रह्मैव भवन्सकलं कर्मकुर्या इति शिवं | अत्र स्फुटस्य बाह्यार्थस्य त्रैवर्णिकावश्योपेयस्याचार्यातेरेर्व्याख्या तत्वेपि | कुशकाशाबलंवनेनाभ्यंतरार्थ कथनं रुद्धिति | प्रथमाश्रम एवतत्वज्ञानजननार्थं | यदि ब्रह्मचारिदशायामेव कचिदायात शक्तिपातस्य विवेकवैगाग्यादि निष्ठिता भवेत् तर्हि कं प्रयोजनामाश्रमात्तुरालंबने क्लेशेन यदहरेव विरजेत्तदहरेव प्रव्रजेत् | इति श्रुतेः | तत्क्षंतव्यमतिगहनकर्ममार्गप्रवर्तवौर्गुरुभिः || ७९ || ओं एकस्तु भैरवोनार्थः प्रोल्लसद्विरूपकः | एकाशिवादि सकलपर्यंत स्थिति संगतः || १ || सोयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् | तत्स्वातंत्र्यात् स्वतंत्रत्वमश्नुवानोवभासते || २ || सोयं मातृस्वरूपस्थो मंत्राध्वेति विभाज्यते | प्रमारूपतया सोयं वर्णादेति सरुच्यते || ३ || प्. १२ब्) प्रमाणरूपतामेत्यप्रयात्येष पदाध्वताम् | प्रमाणरूपतावेशमपरित्यज्यमेयताम् || ४ || गछन् सलोकनायोगात् कलाध्वा मातृसंगताः | शुद्धप्रमेयता योगे सतत्वाध्वेति गृह्यतां || ५ || तत्स्थोल्याधारता योगाद्भुवनाध्वेति वर्णित | निजानंदप्रमात्रंशमात्रनिष्टिनिबंधन | शून्यतामात्रविश्रांते निरानंदात्मिका स्थितिः || १ || प्रमेय पद विश्रांतेः परानंदोभ्युवेत्यलम् | अनंतमेय संघद्वापूर्णे मेये तु सर्वतः || २ || प्रमाणाच्चर्वणा योगान् महानंद इति स्थिति | प्रमाता सर्वमेयौ च कलना ग्रासके विदः || ३ || यदा विश्रांतिमभ्येति निरुपाधि स्वनिर्भराम् | तदा खलु चिदानंदो योजडानुपवृंहितः || ४ || न च तत्र स्थितिः कापि विभक्ता इडरूपिणी | यत्र कोपि व्यवच्छेदो नास्ति तद्विश्वतः स्फुरत् || ५ || यदनाहतसंवित्ति परमामृतसंहितं | तदेव जगदानंद धामास्माकं गुरुर्जगौ || ६ || इति श्री अभिनवगुप्तगुस्वोमालिनीवर्त्ताके || तथा तत्रैव | तस्मादुन्मेषशक्तिर्या पूर्वमासीदभेदिनी | भावोन्मेषस्वरूपासौ या तात्पुरुष स्थितिं || यदभिन्नं तदग्राह्यं यश्चाग्राहकमीश्वरं | अधुना तस्थितं ग्राह्यं भदात्तद्ग्राहकं विदुः || पुरुषाख्यं यतः प्रोक्तं सृष्टे प्रारंभ योगतः | स्वस्फुठ प्रत्यभिज्ञानान्मुखवक्त्रं च भण्यते || जातोपि भेद तन्मात्रे संकोचं यद्रुपागतः | यतो व्यतिनिमीले ते भोक्तृभोग्याविस्फुटम् || अजातमिव तद्विश्वं मत्र सद्योवभासते | सद्योजात पदं तेन शून्यमवेदनात्मकं || अतश्च सद्योजातेस्मिन् मुख्यारौद्र दशा स्मृता | सा च संकोच रूपापि चिद्विकासे भविष्यति || यल्लीना ब्रह्मविष्णीशो तेनाधः कुरुते बलात् | वस्तुभावमयीत्यादि दशारुद्राधिदेवता || प्. १३अ) तस्माद्बोधभरोल्लास विमृष्टमुपरिस्थितं | चिदनुप्राणानां विश्वं स्वीचिकीर्ष चिदात्मनि || स्वबोधशक्ति वसनात् सदेवो वाम उच्यतेति शिवम् || ओं स्त्रीषु तत्तूल्यवर्णासु पुरुषैर्जनिता सुताः | ते ब्रह्मक्षत्रविड् शुद्रा नामानो वर्णसंज्ञिताः || १ || पुंभिरुत्तमवर्णैस्तु स्त्रीषु हीनासु यो सुताः | उत्पादिता भवत्येव षड्विधा अनुलोमजा || २ || पुरुषैर्हीनवर्णैस्तु स्त्रीषु सिष्टासु यो सुताः | उत्पादिता भवत्येते षड्विधा प्रतिलोमजा || ३ || परपुंभ्यश्च पुंसल्यो मृते जीवति वापतौ | जनयंति सुतान्येता जारजान् विद्धितान् द्विधा || ४ || वर्णाश्चत्वार एवोक्ता उपवर्णश्चतुर्दश | अनुलोमस्तु षट्प्रोक्ताः प्रतिलोमाश्च तत्समाः || ५ || जारजातौ च द्वौ प्रोक्तारित्यष्टादशवर्णकाः | उपवर्णासमानस्तु योषिसुजनयंति चेत् || ६ || सुतांस्तज्जायतास्तांस्तां जायते ह्युपवर्णकाः | अन्यथा जातिसंकर्याज्जायंते म्लेछजातयः || ७ || उत्तमाम्लेछजातेभ्यो जारजा परिकीर्त्तिताः | प्रतिलोमास्तु तच्छिष्टास्तेभ्यश्चाप्यनुलोमजाः || ८ || तेभ्यः सिष्टतरावर्णा तेभ्योपि ब्राह्मणोधिकः | ससर्वेषां गुरुपूज्यस्तत्तद्ब्रह्मणि दर्शकः || इत्यष्टादशजातिनिर्णयः || ########### END OF FILE #######